|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.65. अध्यायः 065
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेनोत्तरंप्रति भीष्मादिसकाशे रथप्रापणप्रेरणापूर्वकं तदाप्यायनाय स्वपराक्रमप्रकथनम् ॥1 ॥ तदा दुःशासनादिपराभवनपूर्वकं भीष्मादिभिः सहायोधनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-65-0x(3251)(31120)
कर्णं पराजितं दृष्ट्वा पार्थो वैराटिमब्रवीत्।
एतं मां प्रापयेदानीं रथवृन्दं प्रहारिणाम् ॥ 4-65-1(31121)
यत्र शान्तनवो भीष्मः सर्वेषां नः पितामहः ।
सुयुद्धं काङ्क्षमाणो वै रथे तिष्ठति दंशितः ॥ 4-65-2(31122)
तालो वै काञ्चनो यत्र वज्रवैडूर्यभूषितः ।
अतीव समरे भाति मातरिश्वप्रकम्पितः ॥ 4-65-3(31123)
दारुणं प्रहरिष्यामि रथबृन्दानि धन्विनाम्।
आदास्याम्यहमेतेषां धनुर्ज्यावेष्टनानि च ॥ 4-65-4(31124)
अस्यन्तं दिव्यमस्त्राणि चित्रमुत्तर पश्यसि ॥ 4-65-5(31125)
शतह्रदां जृम्भमाणां मेघस्थां प्रावृषीव च।
सुवर्णपृष्ठं गाण्डीवं पश्यन्तु कुरवो मम ॥ 4-65-6(31126)
दक्षिणेनाथ वामेन कतमेन स्विदस्यति।
इति मां शत्रवः सर्वे न विज्ञास्यन्ति सारथे ॥ 4-65-7(31127)
अस्त्रोदकां हयावर्तां नागनक्रां रथह्रदाम्।
नदीं प्रस्कन्दयिष्यामि परलोकापहारिणीम् ॥ 4-65-8(31128)
पाणिपादशिरःपृष्ठबाहुशङ्खचराचरम्।
वनं कुरूणां छेत्स्यामि भल्लैः सन्नतपर्वभिः ॥ 4-65-9(31129)
तूणीशयाः सुपुङ्खाग्रा विशिखा दुन्दुभिस्वनाः।
मया प्रमुक्ताः संग्रामे कुरून्धक्ष्यन्ति सायकाः ॥ 4-65-10(31130)
ध्वजवृक्षं शरतृणं नागाश्वश्वापदाकुलम् ।
रथसिंहगणैर्युक्तं धनुर्वल्लिसमाकुलम्।
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ॥ 4-65-11(31131)
जयतो भारतीं सेनामेकस्य मम संयुगे।
शतं मार्गा भविष्यन्ति पावकस्येव कानने ॥ 4-65-12(31132)
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ।
तानहं रथनीडेभ्यः परलोकाय शात्रवान्।
एकः प्रद्रावयिष्यामि चक्रपाणिरिवासुरान् ॥ 4-65-13(31133)
असंभ्रान्तो रथे तिष्ठन्समेषु विषमेषु च।
मार्गमावृत्य तिष्ठन्तमपि भेत्स्यामि पर्वतम् ॥ 4-65-14(31134)
अहमिन्द्रस्य संग्रामे द्विषतो बलदर्पितान्।
मातलिं सारथिं कृत्वा निवातकवचान्रणे ।
हतवान्सर्वतः सर्वान्धावतो युध्यतस्तदा ॥ 4-65-15(31135)
निवातकवचान्हत्वा गाण्डीवास्त्रैः सहस्रशः ।
परं पारे समुद्रस्य हिरण्यपुरमारुजम् ॥ 4-65-16(31136)
हत्वा षष्टिसहस्राणि रथानामुग्रधन्विनाम्।
पौलोमान्कालकेयांश्च समरे भृशदारुणान् ।
असुरानहनं घोरान्रौद्रेणास्त्रेण सारथे ॥ 4-65-17(31137)
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः क्षिप्रहस्तताम् ।
प्रगाढनिपुणं चित्रमतिवृद्धं प्रजापतेः ॥ 4-65-18(31138)
रौद्रं रुद्रादहं वेद्मि वारुणं वरुणादपि ।
सौर्यं सूर्यादहं वेद्मि याम्यं दण्डधरादपि ॥ 4-65-19(31139)
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः।
अन्यैर्देवैरहं प्राप्तः को मां विषहते पुमान् ॥ 4-65-20(31140)
अद्य गाण्डीवनिर्मुक्तैःशरौघै रोमहर्षणैः ।
कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम् ॥ 4-65-21(31141)
वैशम्पायन उवाच। 4-65-22x(3252)
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना।
व्यगाहत रथानीकं भीमं भीष्मस्य वाजिभिः ॥ 4-65-22(31142)
रथिसिंहमनाधृष्यं जिगीषन्तं परान्रणे।
अभ्यधावत्तदैवोग्रो ज्यां विकर्षन्धनञ्जयः ॥ 4-65-23(31143)
दुःशासनोऽभ्ययात्तूर्णमर्जुनं भरतर्षभः ॥ 4-65-24(31144)
अन्येऽपि चित्राभरणा युवानो मृष्टकुण्डलाः ।
अभ्ययुर्भीमधन्वानो मौवी पर्यस्य बाहुभिः ॥ 4-65-25(31145)
दुःशासनो विकर्णश्च वृषसेनो विविशतिः।
अभीता भीमधन्वानं पाण्डवं पर्यवारयन् ॥ 4-65-26(31146)
तस्य दुःशासनः षष्टिं वामपार्श्वे समार्पयत्।
अस्यतः प्रतिसन्धाय कुन्तीपुत्रस्य धीमतः ॥ 4-65-27(31147)
पुनश्चैव स भल्लेन विद्ध्वा वैराटिमुत्तरम् ।
द्वितीयेनार्जुनं वीरं प्रत्यविध्यत्स्तनान्तरे ॥ 4-65-28(31148)
तस्य जिष्णुरुदावृत्य क्षुरधारेण कार्मुकम्।
प्राकृन्तद्गृध्रपत्रेण जातरूपपरिष्कृतम्॥ 4-65-29(31149)
अथैनं पञ्चभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे।
सोपयातो रथोपस्थात्पार्थबाणाभिपीडितः ॥ 4-65-30(31150)
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपाराजितः।
तं विकर्णः शरैस्तीक्ष्णैर्गृध्रपक्षैः शिलाशितैः।
विव्याध परवीरध्नमर्जुनं धृतराष्ट्रजः ॥ 4-65-31(31151)
ततस्तमपि कौन्तेयः शरेण नतपर्वणा ।
ललाटेऽभ्यहनद्गाढं स विद्धः प्राद्रवद्भयात् ॥ 4-65-32(31152)
ततः पार्थमुपाद्रुत्य दुस्सहः सविविंशतिः।
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ॥ 4-65-33(31153)
तावुभौ गृध्रपत्राभ्यां निशिताभ्यां धनञ्जयः।
विव्याध युगपद्व्यग्रस्तयोर्वाहानसूदयत् ॥ 4-65-34(31154)
तौ हताश्वौ तु विद्धाङ्गौ धृतराष्ट्रात्मजावुभौ ।
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ॥ 4-65-35(31155)
व्यद्रावयदशेषांश्च धृतराष्ट्रसुतांस्तदा ।
विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत् ॥ 4-65-36(31156)
किरीटमाली कौन्तेयो लब्धलक्षः प्रतापवान् ।
पातयन्नुत्तमाङ्गानि बाहूश्च परिघोपमान् ॥ 4-65-37(31157)
अशेरत महावीराः शतशो रुक्ममालिनः ॥ 4-65-38(31158)
कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः।
रुचिरमकरकुण्डलैर्मही पुरुषशिरोभिरथास्तृता बभौ ॥ 4-65-39(31159)
सुनसं चारुदीप्ताश्चं क्लृप्तश्मश्रु स्वलंकृतम् ।
अदृश्यत शिरश्छिन्नमनेकं हेमकुण्डलम् ॥ 4-65-40(31160)
एवं तत्प्रहतं सैन्यं समन्तात्प्रद्रुतं भयात्॥ 4-65-41(31161)
अथ दुर्योधनः कर्णः सौबलः शकुनिस्तदा।
द्रोणश्च द्रोणपुत्रश्च कृपश्चातिरथो रणे ॥ 4-65-42(31162)
सहिता विजयं तत्र योधयन्तो महारथाः।
विष्फारयन्तश्चापानि बलवन्ति महाबलाः ॥ 4-65-43(31163)
ततः कीर्णपताकेन रथेनादित्यवर्चसा।
पुनरावृत्य मार्गस्थं ददृशुर्वानरध्वजम् ॥ 4-65-44(31164)
ते महास्त्रैर्महेष्वासाः परिवार्य धनञ्जयम्।
अभ्यवर्षन्सुसंक्रुद्धा महामेघा इवाचलम् ॥ 4-65-45(31165)
शरौघान्सम्यगस्यन्तो जीमूता इव शारदाः ।
युद्धे तस्थुर्महावीर्याः प्रतपन्तः किरीटिनम् ॥ 4-65-46(31166)
इषुभिर्बहुभिस्तूर्णं निशितैर्लोमवापिभिः ।
अदूरात्प्रत्यवस्थाय पाण्डवं समयोधयन् ॥ 4-65-47(31167)
ततः प्रहस्य बीभत्सुस्तमैन्द्रं पञ्चवार्षिकम् ।
अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत् ॥ 4-65-48(31168)
नाक्षणां न च चक्राणां न रथानां न वाजिनाम् ।
अङ्गुलाद्दव्यङ्गुलाद्वापि विवृतं प्रत्यदृश्यत ॥ 4-65-49(31169)
यथा रश्मिभिरादित्यो वृणुते सर्वतो दिशम्।
एवं किरीटिना मुक्तं सर्वं प्राच्छादयञ्जगत् ॥ 4-65-50(31170)
यथा बलाहके विद्युत्पावको वा शिलोच्चये।
तथा गाण्डीवमभवच्चक्राभुधमिवाततम् ॥ 4-65-51(31171)
यथा वर्षति पर्जन्यो विद्युत्पतति पर्वते।
विस्फूर्जिता दिशः सर्वा ज्वलद्गाण्डीवमावृणोत्॥ 4-65-52(31172)
त्रस्ताश्च रथिनःक सर्वे चैन्द्रमस्त्रं विकुर्वति।
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे ।
सहिता द्रोणभीष्माभ्यां प्रमोहगतचेतनाः॥ 4-65-53(31173)
तानि सर्वाणि सैन्यानि भग्नानि भरतर्षभ ।
प्राद्रवन्त दिशः सर्वा भयाद्वै सव्यसाचिनः ॥ ॥ 4-65-54(31174)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चषष्टितमोऽध्यायः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|